यंत्रोद्धारक हनुमत्स्तोत्रं :-
Yantro dwark hanuman stotram :-
नमामिदूतं रामस्य सुखदम् च सुरद्रमम । पीनवृत्तमहाबाहूं सर्वशत्रुनिवारणम ॥
नानारत्नसमायुक्तकुन्डलादिविराजितम । सर्वदाऽभिष्टदातारम् सताम् वै दृढमाहवे ।
वासीनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ।तुंगांभोधितरंगस्य वातेन परिशोभिते ॥
नानादेशागतै: सद्भि:सेव्यमानं नृपोत्तमै: ।धूपदीपादिनैवेद्यै: पंचखाद्यैश्च शक्तित: ॥
भजामि श्रीहनुमंतम हेमकांतिसमप्रभं ।व्यासतीर्थयतींद्रेण पूजितम् च विधानत: ॥
त्रिवारं य: पठेन्नित्यम स्तोत्रम भक्तया द्विजोत्तम: । वांछितम लभतेऽभिक्ष्यणम षण्मासाभ्यंतरे खलु ॥
पुत्राऽर्थी लभते पुत्रम यशोऽर्थी लभते यश: । विद्याऽर्थी लभते विद्याम धनाऽर्थी लभते धनं ॥
सर्वथा माऽस्तु संदेहो हरी: साक्षी जगत्पति: । य: करोत्यत्र संदेहं स याति नरकं धृवम ॥
॥इति श्री व्यासराजविरचितम् यंत्रोद्धारक हनुमत स्तोत्रं ॥